(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.131. अध्यायः 131
Mahabharata - Vana Parva - Chapter Topics
लोमशेन युधिष्ठिरंप्रति नानातीर्थमहिमानुवर्णनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

लोमश उवाच। 3-131-0x(2130)(20923)
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः।
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ॥ 3-131-1(20924)
अम्बरीषश्च नाभाग इष्टवान्यमुनामनु।
यत्रेष्ट्वा दशपद्मानि सदस्येभ्योऽभिसृष्टवान् ॥ 3-131-2(20925)
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः।
देशश्च नाहुषस्यायं य़ज्वनः पुण्यकर्मणः ॥ 3-131-3(20926)
सार्वभौमस्य कौन्तेय ययातेरमितौजसः।
स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह ॥ 3-131-4(20927)
पश्य नानाविधाकारैरग्निभिर्निचितां महीम्।
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ॥ 3-131-5(20928)
एषा शम्येकपत्रा सा शकटं चैतदुत्तमम्।
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ॥ 3-131-6(20929)
एतच्चर्चीकपुत्रस्य योगैर्विचरतो महीम्।
प्रसर्पणं महीपाल रौप्यायाममितौजसः ॥ 3-131-7(20930)
अत्रानुवंशं पठतः शृणु मे कुरुनन्दन।
उलूखलैराभरणैः पिशची यदभाषत ॥ 3-131-8(20931)
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले।
तद्वद्भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि ॥ 3-131-9(20932)
एकरात्रमुवित्वेह द्वितीयं यदि वत्स्यसि।
एतद्वै ते गदेवावृत्तं रात्रौ वृत्तमितोऽन्यथा ॥ 3-131-10(20933)
अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम।
द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत ॥ 3-131-11(20934)
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान्।
ययातिर्बहुरत्नौर्घर्यत्रेन्द्रो मुदमभ्यगात् ॥ 3-131-12(20935)
एतत्प्लक्षावतरणं यमुनातीर्थमुत्तमम्।
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ॥ 3-131-13(20936)
अत्रसारस्वतैर्यज्ञैरीजानाः परमर्षयः।
यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम् ॥ 3-131-14(20937)
अत्रवै भरतो राजा राजन्क्रतुभिरिष्टवान्।
हयमेधेन यज्ञेन मेध्यमश्वमवासृजत् ॥ 3-131-15(20938)
असकृत्कृष्णसारङ्गं धर्मेणाप्य च मेदिनीम्।
अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्।
प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः ॥ 3-131-16(20939)
अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोँकान्प्रपश्यति।
पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश ॥ 3-131-17(20940)
वैशम्पायन उवाच। 3-131-18x(2131)
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः।
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ॥ 3-131-18(20941)
सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम।
इहस्तः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ॥ 3-131-19(20942)
लोमश उवाच। 3-131-20x(2132)
एवमेतन्महाबाहो पश्यन्ति परमर्षयः।
इह स्नात्वा तपोयुक्तांस्त्रील्लोँकान्सचराचरान् ॥ 3-131-20(20943)
सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम्।
यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि ॥ 3-131-21(20944)
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः।
ऋषयश्चैव कौन्तेय तथा राजर्षयोपि च ॥ 3-131-22(20945)
वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना।
कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ॥ 3-131-23(20946)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-131-2 अभिसृष्टवान् दत्तवान् ॥ 3-131-4 यज्ञवास्तु यज्ञभूमिः। इह अस्मिन्वास्तुनि। इदमुत्तरान्वयि ॥ 3-131-5 अग्निभिरग्निस्थापनार्थैरिष्टकारचितैः स्थण्डिलैः ॥ 3-131-6 शमी आमिक्षार्थं दध्युत्पादनार्थमानीता शमीशाखा। एकपत्रा शातितपत्रा ॥ 3-131-7 प्रसर्पणं संचारभूमिः। रौप्यायां रूप्यवत् श्वेतवर्णायां स्थत्यां नद्यां वा। सामीप्ये सप्तमी। प्रसर्पणं तीर्थमित्यन्ये ॥ 3-131-8 अनुवंशं परंपरागतमाख्यानश्वोकम्। उलूखलैरिति। उलूखलसदृशानि स्त्रीणां कर्णाभरणानि भवन्तीति स्वयमुलूलैरेवाभरणैर्युक्तासतीति शेषः। एतेन विकृतवेषत्वं पिशाच्याः ॥ 3-131-9 युगन्धरे पयः प्राश्येति ध. पाठः। उक्तं भाषणमेवाह द्वाभ्यां युगन्धर इति। अस्मिंस्तीर्थे सपुत्रा ब्राह्मणी स्नातुमागता तां प्रति पिशाची वदति। त्वया युगन्धरे पर्वते देशे वा दधिप्राशनं कृतम्। तत्रोष्ट्रीक्षीरं गर्दभ्यादिक्षीरं च दधि क्रियते। तथा अच्युतस्थलाख्ये संकरजानां ग्रामे वासश्च कृतः। तथा भूतिलयाख्ये दस्युग्रामेऽग्निदग्धानां मृतानां क्षेपणं यस्यां नद्यां क्रियते तस्यां स्नातासि। अतो दोषत्रयवती त्वम्। एतत्करणे रहि प्रायश्चित्तं धर्मशास्त्रे प्रसिद्धम्। औष्ट्रमैकशफं क्षीरं सुरातुल्यमिति। संसृज्य संकरैः सार्धं प्राजापत्यं व्रतं चरेदिति। प्रोष्यभूतिलये विप्रः प्राजापत्यं व्रतं चरेदिति च। तच्च त्वया न कृतमतः कथमत्र वस्तुमिच्छसि। दोषवतामिह तीर्थे वासो दुर्लभ इत्यर्थः। एवं पिशाचीवाक्यं श्रुत्वापि सा ब्राह्मणी तत्र स्नानादिकं कृतवती। ततस्तया राक्षस्या तस्या घटपिठरादिकं नाशितम्। उक्तंच। एतत्तव दिवावृत्तं रात्रौ वृत्तं तु द्रक्ष्यसीति। वृत्तं जातम्। रात्रौ तु तव पुत्रमपि नाशयिष्यामीति भावः। अथापि द्वितीयां रात्रिं वस्तुमिच्छसि चेत्तव भूयांसमपकारं करिष्यामीति युगन्धरादिदेशत्रयनिन्दापरत्वेन व्याख्या ॥ 3-131-10 त्वं तु अब्रह्मवित् एकरात्रमेवात्र वस्तुं योग्या। यदि द्वितीयां वस्तुमिच्छसि तर्हि ते तव एतत् मदीयं वृत्तं भविष्यति मद्वत् पिशाची भूत्वात्र स्नानं न लप्स्यसे। एतदिति स्ववृत्तस्याभिनीय प्रदर्शनम्। द्वितीयदिनवासस्यैवैतत्फलं। द्वितीयरात्रिवासे तुं इतोन्था अहल्यादिवन्मोहप्राप्त्या शिलाभावो भविष्यति। तेन तीर्थदर्शनमपि न लप्स्यसे इति ॥ 3-131-13 एतत्प्लक्षवटं नामेति क. पाठः ॥ 3-131-14 दन्तोलूखलिनस्तत्रेति क. पाठः। सारस्वतैर्ब्राह्मणैः ऋत्विग्भिर्यज्ञैरीजानाः यूपोलूखलिकाः यूपान् उलूखलानि च यज्ञसाधनान्याददते यूपोलूखलिकाः ॥ 3-131-16 कृष्णसारङ्गं कृष्णहरिणसदृशं श्यामकर्णमित्यर्थः ॥ 3-131-21 तीर्थान्तरमाह सरस्वतीति। पश्यैकशरणावृतामिति क. पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.